सपत्नीक-विप्रेन्द्र-भक्तिप्रकाशं नवादित्य-सङ्काशमन्तर्विकाशम् । धराभारसंहारकं देवदेवं भजे शङ्करं देशिकेन्द्रं वरेण्यम् ॥ १॥ श्रुतिप्रोक्त-सद्धर्मरक्षावतारं महामोह-सन्दोह-सन्तापहारम् । जगद्वन्द्यपादं सदाद्वैतवादं भजे शङ्करं देशिकेन्द्रं वरेण्यम् ॥ २॥ त्रितापाग्निदग्धाकुलान् जीवसङ्घान् कृपासारधाराभि-संप्लावयन्तम् । क्षमा-मण्डनं मण्डनाचार्य-पूज्यं भजे शङ्करं देशिकेन्द्रं वरेण्यम् ॥ ३॥ जगन्मङ्गलं ज्ञान-विज्ञानतृप्तं गुणातीतमद्वैततत्त्व-प्रदीप्तम् । प्रसन्नं प्रकृष्टं शरण्यं गरिष्ठं भजे शङ्करं देशिकेन्द्रं वरेण्यम् ॥ ४॥ महावाक्य-पीयूष-दाने प्रदक्षं विनेयाभिसन्तापनाशे सुदक्षम् । प्रसन्नाम्बुजाक्षं सदा मे समक्षं भजे शङ्करं देशिकेन्द्रं वरेण्यम् ॥ ५॥ प्रपन्नार्त्त-हृद्ध्वान्तनाशे प्रदान्तं प्रसन्नाभिसौम्यातिसौम्यं प्रशान्तम् । चिदानन्द-सन्मात्रमूर्तिं सुकान्तं भजे शङ्करं देशिकेन्द्रं वरेण्यम् ॥ ६॥ श्रुतेर्भाष्य-भासा समुद्भासयन्तं विपक्षान् स्वपक्षान् सदा कारयन्तम् । स्वशिष्यान् सुयोग्यान् मुदा वोचयन्तं भजे शङ्करं देशिकेन्द्रं वरेण्यम् ॥ ७॥ चतुर्वेदरूपान् स्वरूपान् स्वशिष्यान् सुरेशाब्जपादादिसंज्ञान् वरिष्ठान् । चतुर्दिक्षु संस्थापयन्तं शरण्यं भजे शङ्करं देशिकेन्द्रं वरेण्यम् ॥ ८॥ श्रीशङ्कराष्टकं पुण्यं हृषीकेश-प्रकल्पितम् । राजतां देशिकेन्द्रस्य कोमले चरणाम्बुजे ॥ ९॥ इति श्रीजगन्नाथाश्रम-पूज्यपाद-शिष्य श्रीहृषीकेशाश्रम विरचितं श्रीशङ्कराचार्य-भुजङ्गप्रयाताष्टकं सम्पूर्णम् ।
श्रीशङ्कराचार्यभुजङ्गप्रयाताष्टकम्