May 20, 2023

श्रीशङ्कराचार्यभुजङ्गप्रयाताष्टकम्

श्रीशङ्कराचार्यभुजङ्गप्रयाताष्टकम सपत्नीक-विप्रेन्द्र-भक्तिप्रकाशं नवादित्य-सङ्काशमन्तर्विकाशम् । धराभारसंहारकं देवदेवं भजे शङ्करं देशिकेन्द्रं वरेण्यम् ॥ १॥ श्रुतिप्रोक्त-सद्धर्मरक्षावतारं महामोह-सन्दोह-सन्तापहारम् । जगद्वन्द्यपादं सदाद्वैतवादं भजे शङ्करं देशिकेन्द्रं वरेण्यम् ॥ २॥ त्रितापाग्निदग्धाकुलान् जीवसङ्घान् कृपासारधाराभि-संप्लावयन्तम् । क्षमा-मण्डनं मण्डनाचार्य-पूज्यं भजे शङ्करं देशिकेन्द्रं वरेण्यम् ॥ ३॥ जगन्मङ्गलं ज्ञान-विज्ञानतृप्तं गुणातीतमद्वैततत्त्व-प्रदीप्तम् । प्रसन्नं प्रकृष्टं शरण्यं गरिष्ठं भजे शङ्करं देशिकेन्द्रं वरेण्यम् ॥ ४॥ महावाक्य-पीयूष-दाने प्रदक्षं विनेयाभिसन्तापनाशे सुदक्षम् । प्रसन्नाम्बुजाक्षं […]

Read More